EUVIMEDEUVIMED entdecken
Crossref

आचार्यशङ्करकृतब्रह्मसूत्राध्यासभाष्यम् : एकं मनोवैज्ञानिकविश्लेषणम्

सौरभः दे

Devabhumisaurabham · 15.07.2026 · 3 (1) · 301-309

DOI: 10.65833/dbs.2026.334 ↗

Kurz gefasst

Fachartikel in der Zeitschrift Devabhumisaurabham, online erschienen am 15.07.2026. Verfasst von सौरभः दे.

AbstractBibliografische AngabenZitieren

Abstract (Originalsprache)

भारतीयानां मनीषिणां ज्ञानविज्ञानपरम्परायाः आधारशिला वेदाः एव सन्ति। वेदाः हि समस्तविद्यानां मूलप्रभवः। वेदानन्तरं भारतीयज्ञानपरम्परायां प्रस्थानत्रयी नामकं महत्त्वपूर्णं प्रकाशस्तम्भवत् स्थानं धारयति। तत्र — १. श्रुतिप्रस्थानम् — उपनिषदः २. स्मृतिप्रस्थानम् — श्रीमद्भगवद्गीता ३. न्यायप्रस्थानम् — ब्रह्मसूत्राणि आचार्यः शङ्करः प्रस्थानत्रय्याः भाष्यरचनया अद्वैतवेदान्तस्य सुदृढां प्रतिष्ठां कृतवान्। अद्वैतवेदान्तदर्शने एकमेव ब्रह्म अथवा आत्मा परमसत्तारूपेण स्वीक्रियते, यतः स एव त्रिकालाबाधितः, नित्यः, एकः, चैतन्यस्वरूपः, साक्षी, सर्वव्यापी च अस्ति।यथा श्रुतौ उक्तम् — एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा। कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च॥ अत्र प्रश्नोऽयं समुत्पद्यते— यत् एकः, चैतन्यस्वरूपः, साक्षी, निर्गुणश्च आत्मा अथवा ब्रह्म कथं नाम अनेकेषु सगुणेषु जीवेषु जडेषु पदार्थेषु च भासमानः दृश्यते? तथा च अस्मिन् जगति कर्तृत्वभोक्तृत्वादिव्यवहारं कुर्वतः जीवस्य उपपत्तिः कथं सिध्यति? अस्याः प्रमुखायाः तत्त्वमीमांसात्मकसमस्यायाः समाधानार्थम् आचार्यः शङ्करः ब्रह्मसूत्रभाष्यस्य आरम्भे उपोद्घातरूपेण अध्यासभाष्यं निरूपितवान्। तत्र सः एकं सूक्ष्मं मनोवैज्ञानिकं सिद्धान्तं प्रतिपादयति— यथा एकस्य चैतन्यस्वरूपस्य ब्रह्मणः अथवा आत्मनः अनेकानाम् अनात्मपदार्थानां मध्ये भानं भवति, तस्य कारणं अस्मद्युष्मत्प्रत्यययोः सत्यानृतमिथुनीकरणरूपः अध्यासः, (तमेतमेवंलक्षणमद्यामं पण्डिता अविद्येति मन्यन्ते । ब्रह्मसूत्राकरभाष्य, वही. ५२) यः अज्ञानम् अथवा अविद्या इति कथ्यते। अस्य अध्यासस्य प्रभावात् जीवः स्वात्मानं ज्ञाता, कर्ता, भोक्ता इति मन्यते। अस्मिन् शोधप्रबन्धे अध्यासभाष्यस्य मनोवैज्ञानिकदृष्ट्या विश्लेषणं कृतम् अस्ति, यत् मानवीयव्यवहारस्य मनोवैज्ञानिकमूलाधारं प्रकाशयति— यथा शुद्धचैतन्यस्वरूपः आत्मा अपि जगति प्रमाणप्रमेयव्यवहारस्य कर्ता इव जीवत्वेन प्रतीयते।

Zitieren

APA

दे, स. (2026). आचार्यशङ्करकृतब्रह्मसूत्राध्यासभाष्यम् : एकं मनोवैज्ञानिकविश्लेषणम्. Devabhumisaurabham, 3(1), 301-309. https://doi.org/10.65833/dbs.2026.334

Vancouver

दे स. आचार्यशङ्करकृतब्रह्मसूत्राध्यासभाष्यम् : एकं मनोवैज्ञानिकविश्लेषणम्. Devabhumisaurabham. 2026;3(1):301-309. doi:10.65833/dbs.2026.334

BibTeX
@article{2026,
  author = {दे, सौरभः},
  title = {आचार्यशङ्करकृतब्रह्मसूत्राध्यासभाष्यम् : एकं मनोवैज्ञानिकविश्लेषणम्},
  journal = {Devabhumisaurabham},
  year = {2026},
  volume = {3},
  number = {1},
  pages = {301--309},
  doi = {10.65833/dbs.2026.334}
}
Kostenlos starten →