EUVIMEDEUVIMED entdecken
Crossref

अन्योन्याश्रयदोषपरिहारविचारः

लेखरामः दन्नाना

Devabhumisaurabham · 15.07.2026 · 3 (1) · 273-282

DOI: 10.65833/dbs.2026.331 ↗

Kurz gefasst

Fachartikel in der Zeitschrift Devabhumisaurabham, online erschienen am 15.07.2026. Verfasst von लेखरामः दन्नाना.

AbstractBibliografische AngabenZitieren

Abstract (Originalsprache)

हलन्त्यमिति इत्सञ्ज्ञाविधायकं सूत्रम्। "न विभक्तौ तुस्माः" इति इत्सञ्ज्ञानिषेधसूत्रम्। विभक्तिघटकानां तवर्गसकारमकाराणाम् इत्संज्ञा निषिध्यते अनेन सूत्रेण। अतः"हलन्त्यमिति" उत्सर्गसूत्रम्,"न विभक्तौ तुस्माः" भवति अपवादसूत्रम्। अपवादसूत्रस्य वाक्यार्थबोधानन्तरम् उत्सर्गसूत्रस्य वाक्यार्थबोधः इति नियमोऽस्ति।"न विभक्तौ तुस्माः" इति सूत्रस्य अपवादतया तस्य पूर्वं वाक्यार्थबोधः आवश्यकः। परन्तु वाक्यार्थबोधे पदपदार्थोपस्थितिः कारणम् इत्यपि नियमो वर्तते। अत्र सूत्रे विभक्तिपदं वर्तते। विभक्तिपदार्थस्य ज्ञानं यावत् पर्यन्तं न भवति तावत् पर्यन्तं "न विभक्तौ तुस्माः" इति सूत्रस्य वाक्यार्थबोधो न सम्भवति। "विभक्तिश्च" इति सूत्रेण सुप्तिङोः विभक्तिसंज्ञा विधीयते। अतः विभक्तिज्ञानं सुप्ति‌ङोः ज्ञानाधीनम्। सुप्तिङोः ज्ञानम् "आदिरन्त्येन सहेता" इति सूत्रस्य वाक्यार्थबोधोत्तरमेव सम्भवति। तच्च "हलन्त्यम्" इति सूत्रस्य वाक्यार्थबोधाधीनम्। अतः परस्परापेक्षरूपदोष: अत्रापि वर्तते। एवञ्च पूर्ववत् "हलन्त्यम्","न विभक्तौ तुस्माः" इत्यनयोः सूत्रयोः अन्योन्याश्रयदोषो भवति।"आदिरन्त्येन सहेता", "हलन्त्यम्" इत्यनयोः सूत्रयोः अन्योन्याश्रयस्य समाधानेऽपि "हलन्त्यम्" “न विभक्तौ तुस्मा:” इत्यनयोः सूत्रयोः तादृशः दोषः तदवस्थ एव। उभयस्थले अन्योन्याश्रयदोषपरिहारविचारः इह प्रस्तूयते।

Zitieren

APA

दन्नाना, ल. (2026). अन्योन्याश्रयदोषपरिहारविचारः. Devabhumisaurabham, 3(1), 273-282. https://doi.org/10.65833/dbs.2026.331

Vancouver

दन्नाना ल. अन्योन्याश्रयदोषपरिहारविचारः. Devabhumisaurabham. 2026;3(1):273-282. doi:10.65833/dbs.2026.331

BibTeX
@article{2026,
  author = {दन्नाना, लेखरामः},
  title = {अन्योन्याश्रयदोषपरिहारविचारः},
  journal = {Devabhumisaurabham},
  year = {2026},
  volume = {3},
  number = {1},
  pages = {273--282},
  doi = {10.65833/dbs.2026.331}
}
Kostenlos starten →