EUVIMEDEUVIMED entdecken
Crossref

अधिपुराणमष्टाङ्गानि

दयारामगौतमः .

Devabhumisaurabham · 15.07.2026 · 3 (1) · 243-258

DOI: 10.65833/dbs.2026.329 ↗

Kurz gefasst

Fachartikel in der Zeitschrift Devabhumisaurabham, online erschienen am 15.07.2026. Verfasst von दयारामगौतमः ..

AbstractBibliografische AngabenZitieren

Abstract (Originalsprache)

पुराणानि भारतीयसंस्कृतेः महत्त्वपूर्णानि धर्म-ज्ञान-विज्ञान-समन्वितानि ग्रन्थरत्नानि सन्ति। एतेषु केवलं कथारूपेण इतिहासो न वर्ण्यते, अपितु आध्यात्मिकजीवनस्य गूढतमं रहस्यमपि सूक्ष्मरूपेण प्रतिपाद्यते। योगो न केवलं शरीरव्यायामः, अपितु चित्तवृत्तिनिरोधरूपा आत्मसाधना अस्ति। यथा पतञ्जलिना उक्तम्“योगश्चित्तवृत्तिनिरोधः ” किन्तु पुराणेषु योगोऽधिकतया भक्तियोगः, ज्ञानयोगः, कर्मयोगस्तथा लययोग इति विविधरूपेण प्रस्तुतोऽस्ति। पुराणेषु योगः केवलं दार्शनिकः विषयः न, अपितु जीवनस्य व्यावहारिकी साधना अस्ति। विशेषतः निम्नलिखितरूपेण योगो वर्णितः- (क) भक्तियोगः- भक्त्या ईश्वरप्राप्तिः प्रमुखमार्गः इति पुराणेषु प्रतिपादितम्। श्रीमद्भागवते स्पष्टं कथ्यते— “श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम्। ” असौ श्लोको नवधा भक्तियोगस्य आधारोऽस्ति। (ख) ज्ञानयोगः- पुराणेषु ज्ञानं मोक्षस्य प्रधानसाधनम् इति प्रतिपाद्यते। विष्णुपुराणे उक्तम् “ज्ञानं मोक्षस्य कारणम्। ” अत्र ज्ञानं केवलं बौद्धिकं न, अपितु आत्मसाक्षात्काररूपम् अस्ति। (ग) कर्मयोगः- कर्मफलत्यागपूर्वकं कर्माचरणं योगरूपेण वर्णितम्। गीतातत्त्वं पुराणेषु प्रतिध्वनितम्- “कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। ” पुराणेषु अपि एष भावः विस्तरेण दृश्यते। पुराणानुसारं योगः केवलं साधना न, अपितु आत्म-ब्रह्मैक्यस्य अनुभवोऽस्ति। शिवपुराणे योगस्य परिभाषा प्रदत्ता “योगोजीवात्मपरमात्मनोः ऐक्यं वर्तते। पुराणेषु योगः विविधमार्गेषु विभक्तः- 1. मन्त्रयोगः 2. ध्यानयोगः 3. हठयोगस्य पूर्वरूपम् 4. लययोगः 5. नादयोगः विशेषतः कूर्मपुराणे योगाभ्यासस्य महत्त्वं वर्णितम्“ध्यानादेव परं तत्त्वं लभते योगसाधकः। ” पुराणेषु योगस्य परमलक्ष्यं मोक्षप्राप्तिः, आत्मज्ञानम्, ईश्वरसाक्षात्कारः, चित्तशुद्धिःइति प्रतिपादितम्। पुराणेषु योगः बहुआयामी आध्यात्मिकविज्ञानरूपेण स्थितः अस्ति। अत्र न केवलं साधना, अपितु जीवनदर्शनम् अपि अन्तर्भूतम् अस्ति। पुरा नवं भवतीति विग्रहजन्यं पुराणपदं समग्रस्यापि भारतवर्षस्य वर्त्माधायकं वर्तते। पुराणानि ज्ञानादिभिः सह लौकिकमर्यादाया अपि उपदेशकानि वर्तन्ते। पुराणानां सङ्ख्याविषये समेषामपि विदुषामैकमत्यं वर्तते। विदुषामैतिह्यविदां मते पुराणानि अष्टादशसङ्ख्यकानि सन्ति, एतेषां पुराणानां प्रतिपाद्यविषया उपपुराणेषु अपि वर्तन्ते अतस्तेषामपि पुराणम्त्वेन व्यवहारो भवति। एतेषु पुराणोपपुराणेषु अनेकैर्विषयैः साकं योगशास्त्रसम्बद्धा विषया अपि अन्तर्निहिता वर्तन्ते।

Zitieren

APA

., द. (2026). अधिपुराणमष्टाङ्गानि. Devabhumisaurabham, 3(1), 243-258. https://doi.org/10.65833/dbs.2026.329

Vancouver

. द. अधिपुराणमष्टाङ्गानि. Devabhumisaurabham. 2026;3(1):243-258. doi:10.65833/dbs.2026.329

BibTeX
@article{2026,
  author = {., दयारामगौतमः},
  title = {अधिपुराणमष्टाङ्गानि},
  journal = {Devabhumisaurabham},
  year = {2026},
  volume = {3},
  number = {1},
  pages = {243--258},
  doi = {10.65833/dbs.2026.329}
}
Kostenlos starten →