राधावल्लभाभिराजराजेन्द्राचार्ययोः काव्यलक्षणविमर्शः
Devabhumisaurabham · 15.07.2026 · 3 (1) · 226-242
DOI: 10.65833/dbs.2026.328 ↗Kurz gefasst
Fachartikel in der Zeitschrift Devabhumisaurabham, online erschienen am 15.07.2026. Verfasst von वसन्त चन्द्रः.
Abstract (Originalsprache)
प्राचीनकालादेव संस्कृतकाव्यस्वरूपनिरूपणे नैके आलङ्कारिका नैकधा प्रयत्नं कृतवन्तः। तेषु केचन आलङ्कारिकाः शब्दार्थयोरुभयोरेव काव्यपदवाच्यतां स्वीकुर्वन्तः काव्यलक्षणं निरूपितवन्तः। पुनः केचित् शब्दस्यैव काव्यपदवाच्यताम् अङ्गीकुर्वन्तः काव्यस्वरूपनिरूपणे प्रवृत्ताः। भामहः वामनः रुद्रटः कुन्तकः मम्मटः इत्यादिभिः आलङ्कारिकैः शब्दार्थयोरुभयोः काव्यपदवाच्यता स्वीकृता। दण्डी विश्वनाथः जगन्नाथः इत्यादयः आलङ्कारिकाः शब्दस्यैव काव्यपदवाच्यतां स्वीकुर्वन्ति। न केवलं प्राचीना आलङ्कारिकाः, आधुनिका अपि नैके आलङ्कारिकाः काव्यस्य स्वरूपनिरूपणे प्रवृत्ताः। अत्र मया आधुनिकयोः राधावल्लभत्रिपाठि-अभिराजराजेन्द्रमिश्रमहोदययोः काव्यलक्षणविषये संक्षपेण आलोचना कृता। राधावल्लभत्रिपाठिमहोदयमते काव्यलक्षणं भवति ‘लोकानुकीर्तनं काव्यम्’ इति । लोकशब्देनात्र यदेव भासते प्रकाशमायाति तल्लोक इत्यर्थो ग्राह्यः। लोक इत्यनेन न केवलं जनः, अपि तु चराचरं जगदपि गृह्यते। तेन अभिनवभारतीकारेण स्वीकृतम्- लोको नाम जनपदवासी जनः इति, तथा च स्थावरजङ्गमात्मको लोक इति काव्यहेतुनिरूपणकाले मम्मटेन स्वीकृतं च मतं निराक्रियते। स च लोकः आधिभौतिकाधिदैविकाध्यात्मिकभेदेन त्रिविधो भवति। एतत् पञ्चभूतात्मकम् अन्तर्बाह्यकरणानुभूयमानं समग्रं जगद् भवति आधिभौतिकम्। मानससाक्षात्कारजनितो लोको भवति आधिदैविकः। वस्तुनः आन्तरिकं रूपं भवति अध्यात्मम्। अथवा अध्यात्ममिति क्रियाविशेषणं भवति, आत्मनि आत्मने आत्मना वा अध्यात्मम्। अत्र लोकशब्देन त्रयाणामेव लोकानां ग्रहणं भवति। एवम्विधलोकस्य अनुकीर्तनं काव्यं भवति। अनुकीर्तनं शब्दैः पुनः आविष्करणम्। एतेन अनुकीर्तनेन काव्यं पूर्णतां लभते, एषा पूर्णता एव अलङ्कारः। अनून्मीलनानुदर्शनानुभवानुव्याहरणभेदेन अनुकीर्तनं चतुर्विधं भवति। अभिराजराजेन्द्रमिश्रस्य काव्यलक्षणं तावत्- ‘‘काव्यं लोकोत्तराख्यानं रसगर्भं स्वभावजम्।’’ इति। आख्यानपदेन शब्दार्थयोरुभयोः साहित्यं व्यज्यते। एतेन वक्रोक्तिजीवितकार-काव्यप्रकाशकारयोर्मतं समर्थितम्। तच्च काव्यं लोकोत्तरं भवति। लोकोत्तरपदेन रमणीयार्थत्वपक्षधारिणो रसगङ्गाधरकारस्य मन्तव्यमनुमोदितं भवति। तच्च काव्यं रसगर्भं स्यात्। अर्थात्, सद्यः अलौकिकानन्दप्रदेन रसेन प्रत्यङ्गम् अनुबिद्धं भवति। ‘रसगर्भम्’ इति पदग्रहणेन ‘वाक्यं रसात्मकं काव्यम्’ इति मतस्थापकस्य विश्वनाथकविराजस्य भावोऽनुमोदितो भवति। काव्यं भवति स्वतःस्फूर्तं किमपि भावोच्छलनम्। शास्त्राद्यन्यवाङ्मयवत् काव्यं कृत्रिमप्रयत्नेन न सिध्यति। उभयोः मतयोर्मध्ये वैपरीत्यं विद्यते। तथा हि अभिराजराजेन्द्रमिश्रमहाभागैः काव्यस्य लोकोत्तरत्वं प्रतिपादितम्, परन्तु राधावल्लभत्रिपाठिमहोदयैः काव्यस्य लोकानुवर्तित्वमेव प्रतिपादितम्। त्रिपाठिमहोदयमते लोकान्तर्गतमेव सर्वम्। ब्रह्म अपि लोकानुवर्ति। लोकोत्तीर्णं किमपि न भवत्येव। परन्तु अभिराजराजेन्द्रमिश्रमते तु काव्यं लोकोत्तरं स्यात्। तेन मम्मटकुन्तकादीनां मतं समर्थितम्।
Zitieren
APA
चन्द्रः, व. (2026). राधावल्लभाभिराजराजेन्द्राचार्ययोः काव्यलक्षणविमर्शः. Devabhumisaurabham, 3(1), 226-242. https://doi.org/10.65833/dbs.2026.328
Vancouver
चन्द्रः व. राधावल्लभाभिराजराजेन्द्राचार्ययोः काव्यलक्षणविमर्शः. Devabhumisaurabham. 2026;3(1):226-242. doi:10.65833/dbs.2026.328
BibTeX
@article{2026,
author = {चन्द्रः, वसन्त},
title = {राधावल्लभाभिराजराजेन्द्राचार्ययोः काव्यलक्षणविमर्शः},
journal = {Devabhumisaurabham},
year = {2026},
volume = {3},
number = {1},
pages = {226--242},
doi = {10.65833/dbs.2026.328}
}
EUVIMED