EUVIMEDEUVIMED entdecken
Crossref

नरोत्तमभट्टकृतलक्षणसङ्ग्रहस्थहेत्वाभासनिरूपणम्

उर्मिला देवी

Devabhumisaurabham · 15.07.2026 · 3 (1) · 215-225

DOI: 10.65833/dbs.2026.327 ↗

Kurz gefasst

Fachartikel in der Zeitschrift Devabhumisaurabham, online erschienen am 15.07.2026. Verfasst von उर्मिला देवी.

AbstractBibliografische AngabenZitieren

Abstract (Originalsprache)

न्यायशास्त्रे अथवा न्यायवाक्ये हेतुः सुप्रधानं स्थानं अलङ्करोति । युक्तहेतुना साध्यसाधनं सम्भवति । हेतुः द्विधा भवति सद्धेतुः असद्धेतुश्च । व्याप्तिपक्षधर्मताविशिष्टः सद्धेतुः । यथा ‘पर्वतो वह्निमान् धूमात्’ इत्यत्र यत्र यत्र धूमः तत्र तत्राग्निः इति व्याप्तिः पर्वते वर्त्तते, अतः धूमरूपहेतुः सध्देतुः भवति । हेतोः व्याप्तिः न सम्भवति तत् असद्धेतुः । यथा ‘पर्वतः धूमवान् वह्नेः’ इत्यत्र वह्निरूपहेतुः असद्धेतुः । अत्र हेतोः यत्र यत्र वह्निः तत्र तत्र धूमः इति व्याप्तिः न भवति, अयोगोलके वह्निसत्वेऽपि धूमस्याभावात् । स एव दुष्टहेतुः इत्युच्यते । सद्धेतोः निरूपणावसरे अनुमान विजयार्थं तद्विपरीत असद्धेतोः निरूपणम् अपि आवश्यकम् । अतः अनुमाननिरूपणे दुष्टहेतुनिरूपणम् अथवा हेत्वाभासनिरूपणमावश्यकं भवति । हेत्वाभासशब्दश्च हेतोः आभासाः हेत्वाभासाः इति षष्ठीतत्पुरुषसमासाश्रयेण हेतुनिष्ठदोषाभिधायि हेतुवत् आभासन्ते इति उपमितसमासाश्रयेण दुष्टहेतुपरश्च दुष्टत्वञ्च दोषवत्वम् । न्यायभाष्ये हेतुसामान्याद् हेतुवदाभासमाना: हेत्वाभासा: इति हेत्वाभासलक्षणमुच्यते । ‘हेतुलक्षणरहिता हेतुवदाभासामाना हेत्वाभासाः’ इति भासर्वज्ञादयः । लक्षणेषु तर्काणां प्राधान्यं भवति । तर्कः दर्शनस्य विषयरूपेण ज्ञायते । दर्शनम् अर्थाद् यस्य शास्त्रस्य माध्यमेन यथार्थज्ञानं प्राप्यते तत् दर्शनम् इत्युच्यते । भौतिकदर्शने प्रवृत्ते सति भारतीयदर्शनं न केवलं देशे अपितु विदेशेष्वपि स्वस्य वर्चस्वं स्थापितवान् । अहं कोऽस्मि ? अहं कुतः आगतवान् ? कुत्र गन्तव्यम् ? मम कर्तव्यं किम् ? कथम् अयं संसारः अस्तित्वं प्राप्तवान् ? अस्य कारणं किम् ? एतादृशाः प्रश्नाः चिन्तनशीलस्य मनसि निरन्तरमुत्पद्यन्ते । एतेषां सर्वेषां प्रश्नानां समाधानं केवलं दर्शनमेव कर्तुं शक्नोति । भिन्न भिन्न दर्शनानां भिन्न भिन्न मतानि इति योगसिद्धम्, अन्यथा एकमेव दर्शनं स्यात् । यद्यपि सर्वेषां दर्शनानाम् अन्तिमं लक्ष्यं तु आत्यन्तिकदुःखनिवृत्त्येव तथापि भारतीयदर्शने सद्धेतुरिव असद्धेतोः हेत्वाभासस्य तत्त्वनिर्णयविजयप्रयोजकत्वं सुविदितं वर्त्तते विदुषाम्, अतैव तत्त्वचिन्तामणौ गङ्गेशोपाध्यायैः “अथ हेत्वाभासाः तत्त्वनिर्णयविजयप्रयोजकत्वात् निरुप्यन्ते” इत्युक्तम् अतः न्यायशास्त्रे प्रायशः सर्वेषु ग्रन्थेषु हेत्वाभासस्य सामान्यलक्षणम् आचार्यैः कृतं वर्त्तते । लक्षणसङ्ग्रहेऽपि नरोत्तमभट्टैः हेत्वाभासलक्षणं कृतम् । अतः नरोत्तमभट्टविरचिते लक्षणसङ्ग्रहे प्रतिपादितं हेत्वाभासस्वरूपनिरूपणं न्यायपरम्परायाः तर्कवैशद्यं प्रमाणशुद्धिं च सम्यक् प्रकाशयति । एतदध्ययनेन युक्तायुक्तविवेकस्य परिष्कारः, तर्कपद्धतेः सुदृढीकरणं तथा दार्शनिकचिन्तनस्य प्रौढता च सुस्पष्टतया अवगम्यते । नरोत्तमभट्टस्य एषा प्रस्तुतिर्नव्यन्यायतर्कपरम्परायां विशिष्टं योगदानं वहति इति निष्कर्षतः प्रतिपद्यते । तस्माद् हेत्वाभासविमर्शः केवलं तर्कदोषपरिज्ञानस्य साधनं न भवति, अपितु यथार्थज्ञानसिद्धेः अपि महत्त्वपूर्णमाधारत्वेन प्रतिष्ठां भजते ।

Zitieren

APA

देवी, उ. (2026). नरोत्तमभट्टकृतलक्षणसङ्ग्रहस्थहेत्वाभासनिरूपणम्. Devabhumisaurabham, 3(1), 215-225. https://doi.org/10.65833/dbs.2026.327

Vancouver

देवी उ. नरोत्तमभट्टकृतलक्षणसङ्ग्रहस्थहेत्वाभासनिरूपणम्. Devabhumisaurabham. 2026;3(1):215-225. doi:10.65833/dbs.2026.327

BibTeX
@article{2026,
  author = {देवी, उर्मिला},
  title = {नरोत्तमभट्टकृतलक्षणसङ्ग्रहस्थहेत्वाभासनिरूपणम्},
  journal = {Devabhumisaurabham},
  year = {2026},
  volume = {3},
  number = {1},
  pages = {215--225},
  doi = {10.65833/dbs.2026.327}
}
Kostenlos starten →