EUVIMEDEUVIMED entdecken
Crossref

भारतीयज्ञानपरम्परायां पाण्डुलिपीनां योगदानम्

संजय गिरिदास:

Devabhumisaurabham · 15.07.2026 · 3 (1) · 188-195

DOI: 10.65833/dbs.2026.324 ↗

Kurz gefasst

Fachartikel in der Zeitschrift Devabhumisaurabham, online erschienen am 15.07.2026. Verfasst von संजय गिरिदास:.

AbstractBibliografische AngabenZitieren

Abstract (Originalsprache)

भारतीयसंस्कृतिः आदिकालादेव ज्ञानप्रधानसंस्कृतिरूपेण प्रसिद्धा अस्ति । अस्मिन् देशे वेदाः, उपनिषदः, पुराणानि, दर्शनेषु प्रतिपादिताः सिद्धान्ताः, आयुर्वेदः, गणितम्, ज्योतिषम्, व्याकरणम्, साहित्यशास्त्रम् तथा अन्ये बहवः विद्याशाखाः सहस्राब्दपर्यन्तं विकसिताः सन्ति । विशालस्यास्य ज्ञानभण्डारस्य संरक्षणे, प्रसारे तथा परम्परागतसञ्चरणे पाण्डुलिपीनां (Manuscripts) अत्यन्तमहत्त्वपूर्णं योगदानमस्ति । मुद्रणप्रणाल्याः आविष्कारात् पूर्वं समस्तं ज्ञानं गुरुपरम्परया मौखिकरूपेण अथवा पाण्डुलिपिरूपेण एव संरक्षितं भवति स्म । अतः पाण्डुलिपयः भारतीयज्ञानपरम्परायाः प्रमुखाः वाहकाः तथा संरक्षकाः अभवन् । प्राचीनभारते तालपत्रेषु, भोजपत्रेषु, ताम्रपत्रेषु तथा पश्चात् कर्गजपत्रेषु लिखिताः असंख्याः पाण्डुलिपयः विद्यमानाः आसन्, येषु धार्मिकं, दार्शनिकं, वैज्ञानिकं तथा साहित्यिकविषयाणां बहुमूल्याः ग्रन्थाः संरक्षिताः सन्ति । विशेषतः वेदाः, उपनिषदः, रामायणम्, महाभारतम्, पुराणानि, काव्यग्रन्थाः, आयुर्वेदसंहिताः, ज्योतिषशास्त्रग्रन्थाः तथा गणितविषयकग्रन्थाः पाण्डुलिपिरूपेण परम्परया सञ्चारिताः सन्ति । एतेषां पाण्डुलिपीनां माध्यमेन न केवलं भारतीयदर्शनस्य तथा धर्मपरम्परायाः संरक्षणं जातमपि तु विज्ञानं, चिकित्सा, गणितं, खगोलशास्त्रं तथा साहित्यादीनां क्षेत्रेष्वपि ज्ञानस्य विकासः अभवत् । अतः अस्मिन् शोधप्रबन्धे “भारतीयज्ञानपरम्परायां पाण्डुलिपीनां योगदानम्”क इति विषयः विवेच्यते । अस्मिन् अध्ययनस्य मुख्योद्देश्यः अस्ति यत्प्राचीनभारते ज्ञानसंरक्षणे पाण्डुलिपीनां भूमिका, तासां ऐतिहासिकमहत्त्वम्, विविधेषु विद्याक्षेत्रेषु तासां योगदानम् तथा भारतीयसंस्कृतेः विकासे तासां प्रभावः इत्यादीनां पक्षाणां सम्यक् विश्लेषणम् । अध्ययनस्य माध्यमेन ज्ञायते यत् पाण्डुलिपयः केवलं ग्रन्थलेखनस्य साधनम् न, अपि तु ताः भारतीयज्ञानपरम्परायाः जीवितसाक्ष्यरूपेण अद्यापि विद्यमानाः सन्ति । अन्ततः निष्कर्षरूपेण वक्तुं शक्यते यद्भारतीयज्ञानपरम्परायाः संरक्षणे, संवर्धने तथा विश्वव्यापीप्रसारे पाण्डुलिपीनां योगदानमनन्यम् तथा अमूल्यमस्ति । अतः एतेषां पाण्डुलिपीनां संरक्षणम्, सम्पादनम् तथा डिजिटलीकरणम् अद्यतनकाले अत्यन्तावश्यकं कार्यमिति प्रतिपद्यते ।

Zitieren

APA

गिरिदास:, स. (2026). भारतीयज्ञानपरम्परायां पाण्डुलिपीनां योगदानम्. Devabhumisaurabham, 3(1), 188-195. https://doi.org/10.65833/dbs.2026.324

Vancouver

गिरिदास: स. भारतीयज्ञानपरम्परायां पाण्डुलिपीनां योगदानम्. Devabhumisaurabham. 2026;3(1):188-195. doi:10.65833/dbs.2026.324

BibTeX
@article{2026,
  author = {गिरिदास:, संजय},
  title = {भारतीयज्ञानपरम्परायां पाण्डुलिपीनां योगदानम्},
  journal = {Devabhumisaurabham},
  year = {2026},
  volume = {3},
  number = {1},
  pages = {188--195},
  doi = {10.65833/dbs.2026.324}
}
Kostenlos starten →