EUVIMEDEUVIMED entdecken
Crossref

दूतकाव्यपरम्परायां कालिदास-रामभद्राचार्याभ्यां रचितयोः मेघदूत-भृङ्गदूतयोः तुलनात्मकमालोचनम्

Avijit Das

Devabhumisaurabham · 15.07.2026 · 3 (1) · 156-172

DOI: 10.65833/dbs.2026.322 ↗

Kurz gefasst

Fachartikel in der Zeitschrift Devabhumisaurabham, online erschienen am 15.07.2026. Verfasst von Avijit Das.

AbstractBibliografische AngabenZitieren

Abstract (Originalsprache)

संस्कृतदूतकाव्यसाहित्ये दूतसम्प्रेषणं सर्वजनविदितम्। तत्र चेतनाचेतनदूतयोः मध्ये अचेतनदूतानां विशिष्टस्थानमस्ति। अचेतनदूतकाव्यपरम्परायां सर्वप्रथमं दूतकाव्यं भवति कालिदासविरचितं मेघदूतम्, तदनन्तरं धोयिकृतं पवनदूतमिति। परन्तु एतस्मात् पूर्वं वैदिकसाहित्ये अपि अचेतनतत्त्वस्य उल्लेखोऽस्ति। यथा श्यावाश्वऋषिणा रथवीतिनृपस्य कन्यां प्रति रात्रिः दूतीत्वेन प्रेषिता। अचेतनामूर्तदूतकाव्यानि संस्कृतदूतकाव्यपरम्परायाम् अतिमहत्वपूर्णं स्थानं लभन्ते इति। अपि च दूतकाव्यानां मुख्यमुद्देश्यं भवति विरहिप्रणयिनः विरहिप्रणयिनीं प्रति, विरहिण्याः प्रणयिनं प्रति वा सन्देशप्रेषणम् एव। प्राचीनग्रन्थेषु सन्देशविषये उक्तं यत् ‘सन्देशस्तु प्रेषितस्य स्ववार्ताप्रेषणं भवेत्’ इति। परवर्तिनि काले तु जैनकविभिः सन्देशकाव्यानां दिक्परिवर्तनं सम्पादितम्। अतः प्राचीनसन्देशकाव्यग्रन्थेषु दृश्यते यत् नायक-नायिकयोर्मध्ये विरहवार्तां तथा प्रेमवार्तां च प्रेषयितुं कविः दूतं प्रेषयामास इति। अनेनैव ज्ञायते यद् दूतकाव्यस्य अपरनाम सन्देशकाव्यमिति। दूतेन सन्देशप्रेषणमेव दूतकाव्यस्य उपजीव्यः विषयः। गवेषणाक्रमेण अस्माकं स्थिरा धारणा जाता यत् बहुषु दूतकाव्यग्रन्थेषु बहूनि काव्यानि प्राप्यन्ते, तेषु मेघदूतम्, भृङ्गदूतञ्च अन्यतमं वर्तते इति। मेघदूतस्य सफलतायाः अनन्तरं विभिन्नैः कविभिरपि दूतकाव्यानि प्रणितानि सन्ति। एतेषु दूतकाव्येषु जगद्गुरु-रामभद्राचार्यस्य भृङ्गदूतं विशिष्टतया विराजते। भृङ्गदूतम् इति ग्रन्थस्य प्रणेतुः स्वामिरामभद्राचार्य्यस्य जीवनादिविषये पूर्णं वृत्तान्तमपि उपलब्धम् अस्ति। सः न केवलं कवि आसीत्। अपि तु स लोकप्रियः कथाकारः, समाजसेवकः, सनातनधर्मप्रचारकः, लोकसेवकः, प्रख्यातः दार्शनिकश्चेति। एतां सन्देशवार्तां तु भृङगः नामकः दूतः सीतायै ददाति इति। काव्यस्य पूर्वभृङ्गे एकपञ्चाशदधिकद्विशतं श्लोकाः (२५१), उत्तरभृङ्गे च पञ्चाशदधिकद्विशतं श्लोकाः (२५०) सन्ति। अस्य दूतकाव्यस्य दूतः भवति सन्देशप्रणयनकारी भृङ्ग एव। पूर्वभृङ्गे मार्ग-तीर्थस्थान-नगर-वनप्रदेश-नदी-ग्राम-स्त्री-देवदेवी-ऐश्वर्यशक्ति-प्रभृतीनां वर्णनं कृत्वा कविः काव्यं विस्तारयामास। एवञ्च उत्तरभृङ्गनाम्नि द्वितीयभागे किष्किन्धाकाण्डे तु लक्ष्मणेन सह प्रवर्षणपर्वतासीनः सीताविरही रामचन्द्रः स्वमनोमधूपं दूतरूपेण श्रीसीतां प्रति प्रेषयामास।

Zitieren

APA

Das, A. (2026). दूतकाव्यपरम्परायां कालिदास-रामभद्राचार्याभ्यां रचितयोः मेघदूत-भृङ्गदूतयोः तुलनात्मकमालोचनम्. Devabhumisaurabham, 3(1), 156-172. https://doi.org/10.65833/dbs.2026.322

Vancouver

Das A. दूतकाव्यपरम्परायां कालिदास-रामभद्राचार्याभ्यां रचितयोः मेघदूत-भृङ्गदूतयोः तुलनात्मकमालोचनम्. Devabhumisaurabham. 2026;3(1):156-172. doi:10.65833/dbs.2026.322

BibTeX
@article{Das2026,
  author = {Das, Avijit},
  title = {दूतकाव्यपरम्परायां कालिदास-रामभद्राचार्याभ्यां रचितयोः मेघदूत-भृङ्गदूतयोः तुलनात्मकमालोचनम्},
  journal = {Devabhumisaurabham},
  year = {2026},
  volume = {3},
  number = {1},
  pages = {156--172},
  doi = {10.65833/dbs.2026.322}
}
Kostenlos starten →