सिद्धान्तरत्नाकर-कौमुदीमूलार्थविद्योतिनीदृष्ट्या समासशक्तिविचारः
Devabhumisaurabham · 15.07.2026 · 3 (1) · 145-155
DOI: 10.65833/dbs.2026.321 ↗Kurz gefasst
Fachartikel in der Zeitschrift Devabhumisaurabham, online erschienen am 15.07.2026. Verfasst von श्रीओम शर्मा.
Abstract (Originalsprache)
सिद्धान्तरत्नाकरस्य परिचयः¬¬— तत्त्वबोधिनीवदयमपि वैयाकरणसिद्धान्तकौमुद्याः टीकाग्रन्थो वर्त्तते। अस्य प्रणयनं पं. श्रीरामकृष्णभट्टेन सप्तदशशताब्द्याः पूर्वार्धे कृतम्। अद्यत्वे अयं ग्रन्थः स्वरवैदिकीं विहाय सम्पूर्णोपलभ्यते। अस्य ग्रन्थस्य सम्पादनं प्रो.आजादमिश्रेण कृतम्। राष्ट्रियसंस्कृतसंस्थाने ग्रन्थोऽयमुपलभ्यते। कौमुदीमूलार्थविद्योतिन्याः परिचयः — अस्याः टीकाया: प्रणेता मैथिलविद्वान् महावैयाकरणो पं.दीनबन्धुझा वर्त्तते। अस्यास्सम्पादक: विद्यावाचस्पति: ‘डॉ.शशिनाथझा’ अस्ति। ग्रन्थोऽयं 1986 तमे ख्रीष्टाब्दे कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयत: प्रकाशितोऽस्ति। अयं ग्रन्थः अपूर्णः प्राप्यते। सञ्ज्ञाप्रकरणात् कारकान्तभाग एवोपलभ्यते। तत्रापि अजन्तपुँल्लिङ्गे जरसशब्दात् स्त्रीप्रत्ययपर्यन्तः मध्यभागो नैव प्राप्यते। फक्किकाप्रकाशवदयं ग्रन्थो वर्त्तते। समासशक्तिविषये वैयाकरणभूषणसारे मञ्जूषायां व्याकरणस्यार्थिकग्रन्थेषु च महान् विचारः वर्त्तते। वैयाकरणाः समासेऽपि (समुदायेऽपि) शक्तिं स्वीकुर्वन्ति,नैयायिकाः इदं मतं नाङ्गीकुर्वन्ति,ते वदन्ति यत् यदि अवयवशक्त्यैवार्थबोधः स्यात् तर्हि समुदाये शक्तिः किमर्थं स्वीकर्त्तव्या। नैयायिकाः मीमांसकाश्च अवयवशक्त्यैवार्थबोधं समासेऽङ्गीकुर्वन्ति। अतो नैयायिकाः व्यपेक्षावादिनः सन्ति। अत्र तु सिद्धान्तरत्नाकर-कौमुदीमूलार्थविद्योतिन्योः प्रक्रियात्मकग्रन्थयोः मूलपङ्क्तेः समासशक्तिविषये विविधविचाराः प्रस्तूयन्ते। ‘कृत्तद्धितसमासाश्च’ इति सूत्रे समासग्रहणस्य नियमार्थता समासे अतिरिक्ता शक्तिस्वीकारे एव सेत्स्यति। ‘नित्यं समासेऽनुत्तरपदस्थस्य’ इति सूत्रे नित्यग्रहणं तु स्पष्टार्थं बोध्यम् एवञ्च अव्यपेक्षायाम् अप्राप्तषत्वविधानेन चारितार्थ्यात्। तथा व्यपेक्षायां कस्कादिसूत्रस्य असिद्धत्वात् विकल्प एवेति। इत्थं भिन्नं भिन्नं मतमत्र समासशक्तेः प्रसङ्गे उभयोः टीकयोः प्रतिपादितम्। अत्र दीनबन्धुझामहोदयस्य तथा नागेशभट्टस्य मतन्तु प्रायः समानमेव दृश्यते।
Zitieren
APA
शर्मा, श. (2026). सिद्धान्तरत्नाकर-कौमुदीमूलार्थविद्योतिनीदृष्ट्या समासशक्तिविचारः. Devabhumisaurabham, 3(1), 145-155. https://doi.org/10.65833/dbs.2026.321
Vancouver
शर्मा श. सिद्धान्तरत्नाकर-कौमुदीमूलार्थविद्योतिनीदृष्ट्या समासशक्तिविचारः. Devabhumisaurabham. 2026;3(1):145-155. doi:10.65833/dbs.2026.321
BibTeX
@article{2026,
author = {शर्मा, श्रीओम},
title = {सिद्धान्तरत्नाकर-कौमुदीमूलार्थविद्योतिनीदृष्ट्या समासशक्तिविचारः},
journal = {Devabhumisaurabham},
year = {2026},
volume = {3},
number = {1},
pages = {145--155},
doi = {10.65833/dbs.2026.321}
}
EUVIMED