अलंकारशास्त्रे रससिद्धान्तः
Devabhumisaurabham · 15.07.2026 · 3 (1) · 134-144
DOI: 10.65833/dbs.2026.320 ↗Kurz gefasst
Fachartikel in der Zeitschrift Devabhumisaurabham, online erschienen am 15.07.2026. Verfasst von उमेश झा.
Abstract (Originalsprache)
अपूर्वं यद्वस्तु प्रथयति विना कारणकलां जगद्भावप्रख्यं निजरसभरात्सारयति च। क्रमात्प्रख्योपाख्याप्रसरसुभगं भासयति तत् सरस्वत्यास्तत्त्वं कविसहृदयाख्यं विजयते॥ अनपेक्षितप्रसिद्धकारणमप्यपूर्वं वस्तु यत् सृजति, विस्तारयति च, यच्च स्वरसस्य माधुर्येण पाषाणकल्पमपि निष्प्राणं जगत् सारवदिव सम्पादयति, यच्च प्रतिभया वर्णनवैदग्ध्येन च सामान्यविषयमपि सहृदयहृदयहारिणं प्रकाशयति, सरस्वत्यास्तत् काव्यनामकं तत्त्वं यत्र कवीनां सहृदयानाञ्च परमाश्रयभूतं विराजते, तत् सर्वदा विजयी भवतु। पृथिव्यां स्थलप्रदेशाः, जलप्रदेशाः, प्राणिजगत्, समग्रं विश्वं च स्वस्वविशिष्टसौन्दर्येण विभूषितम् अस्ति। एतत् प्राकृतिकं सौन्दर्यमीश्वरस्यैव सृष्टिः। कवेः प्रतिभया तदेव सौन्दर्यं पुनरधिकमनोज्ञरूपेण प्रकाश्यते। कवेर्लेखनीप्रभावेण मानवानां चित्तेषु सुखं दुःखं शोकः प्रेम क्रोधादयो विविधा भावाः सम्यगुद्बुध्यन्ते। काव्यसौन्दर्यसम्बद्धेषु बहुषु विषयेषु ‘रसः’ एव प्रमुखतत्त्वत्वेनास्मिन् प्रबन्धे निरूप्यते। प्रथमं काव्यसम्बद्धानां कतिपयानां तत्त्वानां तथा आलङ्कारिकमतानुसारं काव्यसौन्दर्यप्रतिपादकानां षट्प्रस्थानानां तेषां चाचार्याणां संक्षिप्तः परिचयो प्रदेयः। ततः परं रसप्रस्थानस्य, रसस्वरूपस्य च विवेचनं, विभावानुभावव्यभिचारिभावानां परिचयः, अनन्तरं स्थायिभावस्य रसस्य च सम्बन्धनिरूपणम्, तथा रसतत्त्वप्रतिपादकानामाचार्याणां संक्षिप्तपरिचयः प्रदत्तः। अन्ते च भरतमुनेः प्रसिद्धं रससूत्रमाधारीकृत्य अन्येषामालङ्कारिकाणां मतानां संक्षिप्तं विवेचनमत्र प्रस्तुतम्।
Zitieren
APA
झा, उ. (2026). अलंकारशास्त्रे रससिद्धान्तः. Devabhumisaurabham, 3(1), 134-144. https://doi.org/10.65833/dbs.2026.320
Vancouver
झा उ. अलंकारशास्त्रे रससिद्धान्तः. Devabhumisaurabham. 2026;3(1):134-144. doi:10.65833/dbs.2026.320
BibTeX
@article{2026,
author = {झा, उमेश},
title = {अलंकारशास्त्रे रससिद्धान्तः},
journal = {Devabhumisaurabham},
year = {2026},
volume = {3},
number = {1},
pages = {134--144},
doi = {10.65833/dbs.2026.320}
}
EUVIMED