EUVIMEDEUVIMED entdecken
Crossref

प्रमाणशास्त्रीयपदार्थेषु जातिनिग्रहस्थानयोः स्वरूपविमर्शः

किशोर कुमारः

Devabhumisaurabham · 15.07.2026 · 3 (1) · 118-133

DOI: 10.65833/dbs.2026.319 ↗

Kurz gefasst

Fachartikel in der Zeitschrift Devabhumisaurabham, online erschienen am 15.07.2026. Verfasst von किशोर कुमारः.

AbstractBibliografische AngabenZitieren

Abstract (Originalsprache)

अक्षपादगौतमप्रणीतस्य भारतीयदर्शनपरम्परायां 'प्रमाणशास्त्रम्' 'तर्कविद्या' वेति नाम्ना प्रथितदर्शनशास्त्रस्य मुख्यम् उद्देश्यं प्रमाणैः प्रमेयपरीक्षणेन तत्त्वज्ञानात् निःश्रेयसस्य अधिगमः वर्तते। तत्त्वज्ञानप्राप्तौ एकं प्रमुखं साधनं ‘वादः’ इति न्यायशास्त्रज्ञाः मन्यन्ते। वादप्रक्रियायां सदसत्पक्षयोः निर्णयार्थं, चर्चायाः अनुशासनाय च महर्षिणा गौतमेन षोडशपदार्थानां विवेचनं कृतम्। तेषु प्रमाण-प्रमेयादयः तत्त्वज्ञानस्य साक्षात्साधनभूताः, परन्तु वाद-जल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थानानि वादस्य प्रक्रियात्मकानि अङ्गानि, येषां ज्ञानं वादे विजयप्राप्तये तथाच परपक्षस्य दौर्बल्यं ज्ञातुम् अनिवार्यम्। न्यायदर्शने ‘जातिः’ तथा ‘निग्रहस्थानम्’ केवलं तार्किकदोषौ न स्तः, अपितु तौ वादशास्त्रस्य अनुशासनात्मकौ स्तम्भौ वर्तेते। ‘जातिः’ असदुत्तरेषु विद्यमानां तार्किकवञ्चनां प्रकाशयति, यया कश्चित् स्वस्य अज्ञानं छादयितुं प्रयतते। ‘निग्रहस्थानम्’ तु वादचर्चायां सम्भाव्यमानानां सर्वेषां स्खलनानां, त्रुटीनां, तथा च पराजयकारणानां व्यवस्थितं वर्गीकरणं प्रस्तौतीत्यनयोः विवेचनम् अस्मिन् पत्रे प्रस्तूयते। अतिविस्तरात् जातिनिग्रहस्थानयोः भेदानां विस्तृतं निरूपणमत्र नाभिहितम्।

Zitieren

APA

कुमारः, क. (2026). प्रमाणशास्त्रीयपदार्थेषु जातिनिग्रहस्थानयोः स्वरूपविमर्शः. Devabhumisaurabham, 3(1), 118-133. https://doi.org/10.65833/dbs.2026.319

Vancouver

कुमारः क. प्रमाणशास्त्रीयपदार्थेषु जातिनिग्रहस्थानयोः स्वरूपविमर्शः. Devabhumisaurabham. 2026;3(1):118-133. doi:10.65833/dbs.2026.319

BibTeX
@article{2026,
  author = {कुमारः, किशोर},
  title = {प्रमाणशास्त्रीयपदार्थेषु जातिनिग्रहस्थानयोः स्वरूपविमर्शः},
  journal = {Devabhumisaurabham},
  year = {2026},
  volume = {3},
  number = {1},
  pages = {118--133},
  doi = {10.65833/dbs.2026.319}
}
Kostenlos starten →