संस्कृतमहाकाव्येषु वनस्पतीनां चेतनायाः प्रभावः
Devabhumisaurabham · 15.07.2026 · 3 (1) · 106-117
DOI: 10.65833/dbs.2026.318 ↗Kurz gefasst
Fachartikel in der Zeitschrift Devabhumisaurabham, online erschienen am 15.07.2026. Verfasst von मधुमिता दासः.
Abstract (Originalsprache)
संस्कृतमहाकाव्येषु वनस्पतीनां प्रभावः अत्यन्तं महत्त्वपूर्णं दृश्यते । महाकविभिः प्रकृत्याः सौन्दर्यवर्णने वृक्षलतादीनां विशिष्टं स्थानं निर्दिष्टम् । वनस्पतयः केवलं पर्यावरणस्य शोभां वर्धयन्ति इति न, अपितु मानवजीवनस्य सहचरीभूताः सन्ति । महाकाव्येषु ऋतुवर्णने, प्रेमवर्णने, विरहवर्णने च वनस्पतीनां विशेषः उपयोगः दृश्यते । कालिदासादयः कवयः वृक्षाणां माध्यमेन भावसौन्दर्यं सजीवम् अकुर्वन् । अतः स्पष्टं भवति यत् संस्कृतमहाकाव्येषु वनस्पतयः केवलं प्राकृतिकतत्त्वानि न, किन्तु काव्यस्य अभिन्नं महत्त्वपूर्णं च अङ्गम् अस्ति । भौतिकजगति विद्यमानेषु समस्तेषु जीवनोपयोगिषु प्राकृतिकतत्त्वेषु ‘वानस्पतिकसम्पदा’ स्वस्य महत्त्वेन उपादेयतया च विशिष्टं स्थानं धारयति । वनस्पतयः प्रकृतेः श्रृङ्गाररूपाः सन्ति, तथैव ईश्वरेण निर्दिष्टा जीवनस्य सुचारुसञ्चालनस्य उपयोगी व्यवस्था अपि सन्ति । सृष्टिभिः सर्वाभिः जीवित-अजीवितकारकैः सह वनस्पतयः सम्बद्धाः सन्ति, तथा च कस्यापि रूपेण स्वोपकारकस्वरूपं प्रतिपादयन्ति प्रतिष्ठापयन्ति च । पृथिव्यां सर्वप्रथमोत्पन्नेषु तत्त्वेषु वृक्षादयः वनस्पतयः एव आद्यतत्त्वानि मन्यन्ते, ये मानवेन सह समस्तजीवानां कृते जीवनयापनार्थं मूलभूतावश्यकताः प्रदाय उपकुर्वन्ति । वृक्षादयः वनस्पतयः एव मानवस्य सुखसमृद्ध्योः आधारभूताः सन्ति । प्रकृतौ समस्तं स्थावरं जङ्गमं च स्वस्य मनोरमैः, स्नेहमयैः, कल्याणकरैश्च उपादानैः सदा उपकृतवती । प्रकृत्यां विद्यमानाः उत्तुङ्गाः शिखराः, गभीराः घाट्यः, वृक्षलतानां समुच्चयः वनम्, नद्यः, समुद्राः इत्यादयः भूभागाः न केवलं प्राकृतिकसौन्दर्यस्य कारणानि, अपि तु सृष्टौ जीवितस्य सुचारुव्यवस्थापनस्य प्रमुखसाधनानि अपि सन्ति । प्रकृतेः दृश्यमानाः अदृश्यमानाश्च सर्वे तत्त्वानि मानवेन सह समस्तजीवानां कृते अत्यन्तोपयोगिनः अपरिहार्याश्च सन्ति - एषः सार्वभौमः सत्यः अस्ति । वस्तुतः ईश्वरः अपरिमिताभिः संभावनाभिः, क्षमताभिः, गुणैः, असीमसौन्दर्येन च समन्वितां प्रकृतिं सकलचराचरजगतः कल्याणार्थमेव सृष्टवान् । वनस्पतीनां प्रति मानवहृदये सहजानुरागः वर्तते, तस्य परिणामतः वनस्पतयः मानवस्य दैनन्दिनकार्याणाम् आधारभूताः सन्ति, तथा च भौतिक-आर्थिक-सांस्कृतिक-आवश्यकतानां पूर्तौ महत्त्वपूर्णाः सन्ति । भारतीयसंस्कृतिः वैभवसम्पन्ना वनसंस्कृतेः प्रतिरूपा अस्ति, यत्र वृक्षलतादीनां समष्टिरूपा वनस्पतयः प्रकृतेः धरोहररूपेण स्वीकृताः, अतः भारतीयजनमानसः परमशान्तिदायिनीः वनस्पतीः स्वहृदयस्य समीपे स्थापयित्वा तासां वन्दनापूर्वकं पूजनं कृतवान् । संस्कृतसाहित्यं मानवमनसः अनुभूतिनां साक्षात्कारं कृत्वा प्रकृत्या सह मानवस्य हृदयगतभावानां तादात्म्यसम्बन्धं स्थापयितुं पूर्णतया सफलं सिद्धम्। अतः प्रकृतेः बहुमूल्यघटकत्वेन वनस्पतीनां विवेचनं संस्कृतसाहित्यस्य महत्त्वपूर्णो विषयः अस्ति । वेदेषु वनस्पतीनां वन्दना कृत्वा मानवकल्याणस्य कामना क्रियते। वैदिकसाहित्ये ‘अरण्यसंस्कृतेः’ महत्त्वं सर्वत्र वर्णितमस्ति । लौकिकसाहित्येऽपि वनस्पतीनां प्रति प्रेम्णः साकाराभिव्यक्तिः सर्वत्र दृश्यते। संस्कृतसाहित्यस्य समृद्धपयोनिधौ महाकाव्यानां विशिष्टं स्थानं वर्तते, यत्र महाकवयः स्वकाव्येषु वनस्पतीनां महत्त्वं ज्ञात्वा तासां प्रति आदरभावं व्यक्तवन्तः, प्रकृत्याः प्रति सहजस्नेहं प्रदर्श्य, जीवनस्य अवश्याङ्गत्वेन वनस्पतीः आत्मसात्कृत्य हृदयंगमितवन्तः। संस्कृतमहाकाव्यसाहित्ये विवेचितानां वनस्पतीनां वर्णनात् पूर्वं ‘वनस्पति’ इति शब्दस्य अर्थः स्वरूपं च ज्ञातुं अध्ययनस्य अनुसन्धानस्य च दिशाम् अत्यावश्यकः उपक्रमः अस्ति । प्रकृतौ विद्यमानाः उत्तुङ्गाः शिखराः, गभीराः घाट्यः, वृक्षलतानां समुच्चयः ‘वनम्’, नद्यः, समुद्राः, इत्यादयः भूभागाः न केवलं प्राकृतिकसौन्दर्यस्य कारणानि, अपि तु सृष्टौ जीवितस्य सुचारु-व्यवस्थापनस्य प्रमुखसाधनानि अपि सन्ति । प्रकृतेः दृश्यमानाः अदृश्यमानाश्च सर्वे तत्त्वानि मानवेन सह समस्तजीवानां कृते अत्यन्तोपयोगिनः अपरिहार्याश्च सन्ति- एषः सार्वभौमः सत्यः अस्ति । वस्तुतः ईश्वरः अपरिमिताभिः संभावनाभिः, क्षमताभिः, गुणैः, असीमसौन्दर्येन, परमशान्त्या च समन्वितां प्रकृतिं सकलचराचरजगतः कल्याणार्थमेव सृष्टवान् । ‘वनस्पति’ इति शब्दस्य अर्थ सम्यक् अवगत्य अनन्तरम् एतदपि ज्ञातुम् आवश्यकं यत् मुख्यतया वनस्पतयः केषु रूपेषु केषु च आधारेषु वर्गीकृताः सन्ति । वनस्पतिविषयक- अध्ययने सरलतां सुगमतां च साधयितुं, तथा वनस्पतीनां वर्गीकरणं सम्यग् अवगन्तुं ‘वैज्ञानिक-वर्गीकरणस्य’ बोधः अत्यावश्यकः अस्ति । वनस्पतिविज्ञाने वनस्पतीनां वर्गीकरणम् अत्यन्तसूक्ष्मतया कृतमस्ति ।
Zitieren
APA
दासः, म. (2026). संस्कृतमहाकाव्येषु वनस्पतीनां चेतनायाः प्रभावः. Devabhumisaurabham, 3(1), 106-117. https://doi.org/10.65833/dbs.2026.318
Vancouver
दासः म. संस्कृतमहाकाव्येषु वनस्पतीनां चेतनायाः प्रभावः. Devabhumisaurabham. 2026;3(1):106-117. doi:10.65833/dbs.2026.318
BibTeX
@article{2026,
author = {दासः, मधुमिता},
title = {संस्कृतमहाकाव्येषु वनस्पतीनां चेतनायाः प्रभावः},
journal = {Devabhumisaurabham},
year = {2026},
volume = {3},
number = {1},
pages = {106--117},
doi = {10.65833/dbs.2026.318}
}
EUVIMED