EUVIMEDEUVIMED entdecken
Crossref

वैयाकरणाभिमताधिकरणस्वरूपं तद्भेदाश्च

गणेश्वरनाथ झा

Devabhumisaurabham · 15.07.2026 · 3 (1) · 96-105

DOI: 10.65833/dbs.2026.317 ↗

Kurz gefasst

Fachartikel in der Zeitschrift Devabhumisaurabham, online erschienen am 15.07.2026. Verfasst von गणेश्वरनाथ झा.

AbstractBibliografische AngabenZitieren

Abstract (Originalsprache)

अधिकरणस्य स्वरूपविषये प्राचीननवीनवैयाकरणयोर्मध्ये मतभेदो न दृश्यते। प्राचीनाः अथ च नवीनाः कर्तृकर्मद्वारा क्रियायाः आधारस्यैव अधिकरणसंज्ञां स्वीकुर्वन्ति। अतः उभयेषाम् आचार्याणां मते कर्तृकर्मद्वारा क्रियायाः आधारत्वम् अधिकरणत्वं स्वीकृतं वर्तते। किन्तु अन्वयविषये मतभेदो वर्तते। अत्र प्राचीनाः कैयटदीक्षितप्रभृतयः आचार्याः अधिकरणकारकस्य स्ववृत्ति-वृत्तित्वरूप-परम्परासम्बन्धेन साक्षादेव क्रियायाम् अन्वयं स्वीकुर्वन्ति। यथा "देवदत्तः स्थाल्याम् ओदनं पचति"। अत्र स्वं विक्लितिरूपा क्रिया, तस्याः क्रियायाः आधारः ओदनपदार्थः तस्य ओदनपदार्थस्य आधारः स्थाली, एवं च स्थालीपदार्थस्य अधिकरणस्य स्ववृत्तिवृत्तित्व-सम्बन्धेन विक्लितिरूपायां क्रियायां साक्षाद् अन्वयो भवति। किन्तु नवीनाः नागेशभट्टप्रभृतयः आचार्याः अधिकरणकारकस्य साक्षात् क्रियायाम् अन्वयं न स्वीकुर्वन्ति, अपितु अधिकरणकारकस्य कर्तृकर्मणोः अन्वयं स्वीकुर्वन्ति, एवं च कर्तृकर्मणोः क्रमेण व्यापारे फले च अन्वयं स्वीकुर्वन्ति इति अस्य शोधस्य निष्कर्षः वर्तते।

Zitieren

APA

झा, ग. (2026). वैयाकरणाभिमताधिकरणस्वरूपं तद्भेदाश्च. Devabhumisaurabham, 3(1), 96-105. https://doi.org/10.65833/dbs.2026.317

Vancouver

झा ग. वैयाकरणाभिमताधिकरणस्वरूपं तद्भेदाश्च. Devabhumisaurabham. 2026;3(1):96-105. doi:10.65833/dbs.2026.317

BibTeX
@article{2026,
  author = {झा, गणेश्वरनाथ},
  title = {वैयाकरणाभिमताधिकरणस्वरूपं तद्भेदाश्च},
  journal = {Devabhumisaurabham},
  year = {2026},
  volume = {3},
  number = {1},
  pages = {96--105},
  doi = {10.65833/dbs.2026.317}
}
Kostenlos starten →