EUVIMEDEUVIMED entdecken
Crossref

न्यायदर्शने प्रतिपादितप्रमेयाणां स्वरूपम्

चण्डी प्रसादः

Devabhumisaurabham · 15.07.2026 · 3 (1) · 49-59

DOI: 10.65833/dbs.2026.314 ↗

Kurz gefasst

Fachartikel in der Zeitschrift Devabhumisaurabham, online erschienen am 15.07.2026. Verfasst von चण्डी प्रसादः.

AbstractBibliografische AngabenZitieren

Abstract (Originalsprache)

दर्शनं नाम वस्तुतत्त्वनिरूपकः श्रेष्ठपुरुषप्रवर्तितो विशिष्टशब्दसन्दर्भः । तथा चाऽह न्यायकोशकारः “दर्शनं तत्त्वज्ञानसाधनं शास्त्रम्” इति । तच्च दर्शनं नास्तिकास्तिकभेदेन द्विविधम् । तत्र बौद्धचार्वाकादिदर्शनानि नास्तिकदर्शनानि । न्यायवैशेषिकसाङ्ख्ययोगपूर्वोत्तरमीमांसादर्शनानि आस्तिकदर्शनानि । एषु आस्तिकदर्शनेषु सर्वशास्त्रोपकारकत्वात् न्यायदर्शनस्य प्राधान्यं वर्त्तते । दर्शनशास्त्रस्य मूललक्ष्यं खलु मोक्षप्राप्तिः। न्यायदर्शनेऽपि तस्य व्यत्ययो न भवति । मोक्षलाभार्थमात्मादीनां द्वादशप्रमेयानामुपादेयत्वं प्रतिपादितम् ।द्वादशविधेषु प्रमेयेष्वात्मज्ञानं मोक्षसाधनत्वेन सुव्यवस्थितम् । न्यायसूत्रेषु प्रतिपादितेषु षोडशपदार्थेषु प्रमेयपदार्थः अत्यन्तमहत्त्वपूर्णः अस्ति, यतः सः ज्ञानस्य विषयभूतः अस्ति । तत्र भासर्वज्ञेनाभिहितं प्रमेयलक्षणं यथा "यद्विषयं ज्ञानमन्यज्ञानानुपयोगित्वेनैव निःश्रेयसाङ्गं भवति, मिथ्याज्ञानञ्च संसारं प्रतनोति, तत्प्रमेयम्" । इति। अर्थात् यद्विषयकं ज्ञानमन्यज्ञानोत्पत्तौ अहेतुर्भूत्वा साक्षान्निःश्रेयसाङ्गं भवति । वात्स्यायनोऽपि "योऽर्थः तत्त्वतः प्रमीयते तत्प्रमेयम्" इति । महर्षिगौतमो निम्नाङ्कितानि द्वादशविधानि प्रमेयाणि स्वीकरोति । यथा- "आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्" इति । प्रमाविषय एव प्रमेयशब्देनाभिधीयते । न्यायभाष्ये प्रमाणं यथा- "अस्य तु तत्त्वज्ञानादपवर्गो मिथ्याज्ञानात् संसार इत्यत: एतदुपदिष्टं विशेषेण" इति । न्यायसारे प्रमेयलक्षणं लक्षितं यथा- "यद्विषयं ज्ञानमन्यज्ञानानुपयोगित्वेनैव निःश्रेयसाङ्गं भवति तत् प्रमेयम्" इति । ईदृशसङ्क्षिप्तलक्षणस्य विस्तृतरूपेण न्यायभूषणे प्रतिपादने बीजं केवलविषयस्पष्टार्थमेव न अपितु वात्स्यायनोद्योतकरादिभिः महर्षिभिरपि तादृ‌शप्रमेयकथनादपि तेन विस्तृतरूपेण "यद्विषयं तत्त्वज्ञाननिःश्रेयसं तत्प्रमेयम्" इति व्याख्यातम्। विशेषतया दृष्टिः प्रसारणीया यत् केवलप्रमाविषयमात्रेण पदार्थस्य प्रमेयविषयत्वं न सम्भवति । विषयमिदं स्पष्टीकरोति भासर्वज्ञः यत् स एव प्रमा विषयः प्रमेयम् इति वक्तुं शक्यते। येन मोक्षं प्रति साक्षात्कारणत्वं स्यात् इति । न तु कीटसङ्ख्याद्यपि प्रमेयं तेषां ज्ञानस्य निःश्रेयसानुपयोगित्वात्" । इति । प्रमेयानि तानिभवन्ति यानि प्रमाणैः ज्ञायन्ते । अस्मिन् शोधपत्रेआत्मादि द्वादशप्रमेयानां स्वरूपं, तेषां तात्त्विकमहत्त्वं, मोक्षमार्गे तेषां भूमिका च विस्तारतः विविच्यते ।

Zitieren

APA

प्रसादः, च. (2026). न्यायदर्शने प्रतिपादितप्रमेयाणां स्वरूपम्. Devabhumisaurabham, 3(1), 49-59. https://doi.org/10.65833/dbs.2026.314

Vancouver

प्रसादः च. न्यायदर्शने प्रतिपादितप्रमेयाणां स्वरूपम्. Devabhumisaurabham. 2026;3(1):49-59. doi:10.65833/dbs.2026.314

BibTeX
@article{2026,
  author = {प्रसादः, चण्डी},
  title = {न्यायदर्शने प्रतिपादितप्रमेयाणां स्वरूपम्},
  journal = {Devabhumisaurabham},
  year = {2026},
  volume = {3},
  number = {1},
  pages = {49--59},
  doi = {10.65833/dbs.2026.314}
}
Kostenlos starten →