।।न्यायशास्त्रं परीक्षान्तम् उद्देशान्वितलक्षणम्।।
Devabhumisaurabham · 15.07.2026 · 3 (1) · 16-30
DOI: 10.65833/dbs.2026.312 ↗Kurz gefasst
Fachartikel in der Zeitschrift Devabhumisaurabham, online erschienen am 15.07.2026. Verfasst von सिदि्धदात्री भारद्वाज.
Abstract (Originalsprache)
आचार्य - वात्स्यायन-उद्योतकर-वाचस्पति-उदयन-भासर्वज्ञ-जयन्तभट्ट-वरदराज-केशवमिश्रविश्वनाथ - प्रभृतिभि: प्रकृष्टै: मनीषिभि: प्रपूजितं महर्षिप्रवरगौतम-न्यायसूत्रम् पञ्चसु अध्यायेषु व्याप्नोति। अत्र प्रत्यध्यायम् आह्निकद्वयं प्रकल्पितं चकास्ति। दशाह्निकलसितेषु पञ्चसु अध्यायेषु आहत्य न्यायसूत्राणां संख्या-५२८ परिमिता विद्योतते। तत्र प्रमाणप्रमेयेत्यादिना प्रथमसूत्रेण षोडशपदार्थानां नामसंकीर्तनात्मा उद्देशो विहित: एतत्सहकृतेन द्वितीयेन ‘दुःखजन्मेति'-सूत्रेण सक्रमा अपवर्गप्रातिरिति विनिवेदयता न्यायशास्त्रस्य अनुबन्धचतुष्टयं सुष्ठु प्रकाशितम्। अथ सूत्रषट्कं सप्रभेदस्य प्रमाणस्य लक्षणम् आवेदयति। तदनन्तरं चतुर्दशभि: सूत्रै: प्रकाशितानि आत्मप्रभृति अवपर्गपर्यन्तम् प्रमेय-द्वादशकलक्षणानि निष्कर्षात्मतयात्र विनिवेदितानि। तदनु संशयप्रयोजनदृष्टान्तानां न्यायपूर्वाङ्गात्मकानां, क्रमेण सप्रभेदस्य न्यायाश्रयसिद्धान्तस्य लक्षण - सूत्राणि अवतार्य न्यायावयवानां सूत्रोक्तलक्षण- निष्कर्षप्रकाशनमत्र निबन्धे विहितम्। तर्कनिर्णययो:, कथाङ्गानां हेत्वाभासस्य छलादि-निग्रहस्थानपर्यन्तस्य पदार्थव्रातस्य लक्षणसूत्राणि उल्लिख्य समेषां लक्षणानां परीक्षात्मा या विचारणा विहिता तदीय - सूत्राणि वर्गीकृतानि। अवशिष्टानि तु शास्त्रपूरणात्मानि। शोधालेख एष आकरग्रन्थावगमे सोपानायितम् आस्ते।
Zitieren
APA
भारद्वाज, स. (2026). ।।न्यायशास्त्रं परीक्षान्तम् उद्देशान्वितलक्षणम्।।. Devabhumisaurabham, 3(1), 16-30. https://doi.org/10.65833/dbs.2026.312
Vancouver
भारद्वाज स. ।।न्यायशास्त्रं परीक्षान्तम् उद्देशान्वितलक्षणम्।।. Devabhumisaurabham. 2026;3(1):16-30. doi:10.65833/dbs.2026.312
BibTeX
@article{2026,
author = {भारद्वाज, सिदि्धदात्री},
title = {।।न्यायशास्त्रं परीक्षान्तम् उद्देशान्वितलक्षणम्।।},
journal = {Devabhumisaurabham},
year = {2026},
volume = {3},
number = {1},
pages = {16--30},
doi = {10.65833/dbs.2026.312}
}
EUVIMED