तं वै वैशेषिकं विदुः
Devabhumisaurabham · 15.07.2026 · 3 (1) · 1-15
DOI: 10.65833/dbs.2026.311 ↗Kurz gefasst
Fachartikel in der Zeitschrift Devabhumisaurabham, online erschienen am 15.07.2026. Verfasst von महेश झा und 1 weiteren Autor:innen.
Abstract (Originalsprache)
भारतीय-आस्तिकदर्शनेषु वैशिषिकदर्शनं पदार्थतत्त्वनिर्णयप्रधानम्। तत्र महर्षिकणादप्रणीतेऽस्मिन् दर्शने जगतः बहुविधपदार्थानां पारस्परिकः सम्पर्कः तेषामुत्पत्ति-विनाशप्रक्रिया तथा कार्यकारणतत्त्वस्य सूक्ष्मं विश्लेषणं सन्निहितं विद्यते। न्यायदर्शनेन सह अस्य यद्यपि साम्यता विद्यते तथापि अस्य केचन मौलिकाः सिद्धान्ताः सन्ति। यैः इदं दर्शनं दर्शनेभ्यः भिद्यते। प्रस्तुतशोधपत्रे वैशेषिकदर्शनसम्मताः केचन सिद्धान्ताः समालोचिताः विद्यन्ते ये खलु वैशेषिकाणां प्रमुखचिन्तनविषयाः भवन्ति। पत्रस्यास्य प्रारम्भे वैशेषिकदर्शनस्य नामकरणं कथं सञ्जातं तत्र विभिन्न-न्यायवैशेषिकदार्शनिकानां मतानि समुल्लिखितानि विद्यन्ते। तदुत्तरं वैशेषिकदर्शनसम्मतद्वित्वोत्पत्तिप्रक्रिया समालोचिता। यत्र अपेक्षाबुद्ध्या द्वित्वादिसंख्यानामुत्पत्तिः तथा तस्योपलब्धिश्च भवति। ततः पाकजोत्पत्तिप्रक्रियायां वैशेषिकदर्शनसम्मतपाकजोत्पत्तिप्रक्रिया विस्तरेण पर्यालोचिता। पीलुपाकवादे कतिभिः क्षणैः उत्पन्नं द्व्यणुकं रूपादिमद्भवतीत्यत्र वैशेषिकेष्वपि विद्यमानाः मतभेदाः विचारिताः। ततः विभागजविभागप्रक्रिया अपि काणादपरम्परायाः प्रमुखसिद्धान्तत्वेन विराजते। तत्रापि कारणमात्रविभागात् कथं कारणाकारणविभागः सञ्जायते इति विचारमाश्रित्य चर्चा विहिता विद्यते।
Zitieren
APA
झा, म., & सिंहमहापात्रः, स. (2026). तं वै वैशेषिकं विदुः. Devabhumisaurabham, 3(1), 1-15. https://doi.org/10.65833/dbs.2026.311
Vancouver
झा म, सिंहमहापात्रः स. तं वै वैशेषिकं विदुः. Devabhumisaurabham. 2026;3(1):1-15. doi:10.65833/dbs.2026.311
BibTeX
@article{2026,
author = {झा, महेश and सिंहमहापात्रः, सुशोभन},
title = {तं वै वैशेषिकं विदुः},
journal = {Devabhumisaurabham},
year = {2026},
volume = {3},
number = {1},
pages = {1--15},
doi = {10.65833/dbs.2026.311}
}
EUVIMED