लघुपाणिनीयवैयाकरणसिद्धान्तकौमुदीग्रन्थद्वयदिशा कृत्तद्धितसमासाश्चेति सूत्रार्थसमीक्षणम्
शोधसुधा Shodh Sudha · 30.06.2026 · 4 (05) · 39-49
DOI: 10.3126/ss.v4i05.96266 ↗Kurz gefasst
Fachartikel in der Zeitschrift शोधसुधा Shodh Sudha, online erschienen am 30.06.2026. Verfasst von Sunil Upadhyaya.
Abstract (Originalsprache)
व्याकृतिः व्याकरणम् अर्थात् व्याक्रियन्ते व्युत्पाद्यन्ते असाधुशब्देभ्यः विविच्य साधुशब्दाः निष्पाद्यन्ते अनेन इति व्याकरणपदस्य व्युत्पत्तिलभ्य अर्थः । अधुना व्याकरणशास्त्रपरम्परायां पाणिनीयपरम्परा एव प्रचलन्ती अस्ति । प्रक्रियानुसारेण व्याकरणस्य अध्ययनाध्यापनक्रमे तत्र वैयाकरणसिद्धन्तकौमुद्यां पञ्चसन्धिं समाप्य षड्लिङ्गस्य आरम्भे प्रातिपदिक संज्ञाविधायके सूत्रे प्रक्रियाग्रन्थे समन्विते । तत्रस्थं प्रथमं "अर्थवदधातुरप्रत्ययः प्रातिपदिकम्" द्वितीयं तु "कृत्तद्धितसमासाश्च" इति । तत्र च - स्मृतस्योपेक्षानर्हत्वात् स्वादिसन्धौ उपयोगिनी या प्रातिपदिकसंज्ञा, तस्याः विषयेऽत्र चर्चा विधीयते । शब्दा अपि अव्युत्पन्नाः व्युत्पन्नाश्च भवन्ति । व्युत्पन्नशब्दानां प्रातिपदिकसंज्ञाविधानार्थमिदं सूत्रं प्रवर्तते । अस्मिन् व्याकरणे प्रसिद्धा प्रातिपदिकसंज्ञा पारिभाषिकी । अतः प्रातिपदिकसंज्ञाविधानाय अस्मिन् पाणिनीये व्याकरणे द्वे सूत्रे स्तः । प्रथमम् अर्थवदधातुरप्रत्ययः प्रातिपदिकम् इति, द्वितीयञ्च कृत्तद्धितसमासाश्च इति । किमर्थम् एताभ्यां सूत्राभ्यां प्रातिपदिकमिति महती संज्ञा कृता इति प्रश्ने केचित् विद्वांसः अन्वर्थतायै इति वदन्ति । कृत्तद्धितसमासाश्च इति सूत्रे तद्धितान्तानां प्रातिपदिकसंज्ञाविधानेन अप्रत्ययः तन्त्रेणोच्चारित इति ज्ञाप्यते । तेनास्य सूत्रस्यार्थो धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वा अर्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञा स्यात् इत्युक्तम् । अस्मिन् सूत्रे स्थितानां सम्पूर्णाणां समासयुक्तानां पदानां विच्छेदं कृत्वा सरलया गिरा यथामति अत्रानुन्धानात्मके आलेखे व्याख्या विधीयते । एवं प्रकारेण सिद्धान्तकौमुदीग्रन्थानुसारं तथा च लघुपाणिनीयम् इति ग्रन्थानुसारञ्च अस्य सूत्रस्यार्थसमीक्षणम् एवम् बहूनां विषयाणां निरूपणमपि अत्र वर्तते । भाष्यकारस्य कतिपयानां मतानामपि सामान्यतया निरूपणमत्र विहितमस्ति । अतः अस्य आलेखस्य विषयः 'लघुपाणिनीयवैयाकरणसिद्धान्तकौमुदीग्रन्थद्वयदिशा कृत्तद्धितसमासाश्चचेति सूत्रार्थसमीक्षणम्' वर्तते ।
Zitieren
APA
Upadhyaya, S. (2026). लघुपाणिनीयवैयाकरणसिद्धान्तकौमुदीग्रन्थद्वयदिशा कृत्तद्धितसमासाश्चेति सूत्रार्थसमीक्षणम्. शोधसुधा Shodh Sudha, 4(05), 39-49. https://doi.org/10.3126/ss.v4i05.96266
Vancouver
Upadhyaya S. लघुपाणिनीयवैयाकरणसिद्धान्तकौमुदीग्रन्थद्वयदिशा कृत्तद्धितसमासाश्चेति सूत्रार्थसमीक्षणम्. शोधसुधा Shodh Sudha. 2026;4(05):39-49. doi:10.3126/ss.v4i05.96266
BibTeX
@article{Upadhyaya2026,
author = {Upadhyaya, Sunil},
title = {लघुपाणिनीयवैयाकरणसिद्धान्तकौमुदीग्रन्थद्वयदिशा कृत्तद्धितसमासाश्चेति सूत्रार्थसमीक्षणम्},
journal = {शोधसुधा Shodh Sudha},
year = {2026},
volume = {4},
number = {05},
pages = {39--49},
doi = {10.3126/ss.v4i05.96266}
}
EUVIMED