EUVIMEDEUVIMED entdecken
Crossref

अद्वैतद‌र्शनसम्मतपञ्चकोशसिद्धान्तविवेकः

Umesh Ghimire

Sharada Research Journal · 2026

DOI: 10.3126/srj.v1i2.99120 ↗

Kurz gefasst

Fachartikel in der Zeitschrift Sharada Research Journal, 2026. Verfasst von Umesh Ghimire.

AbstractBibliografische AngabenZitieren

Abstract (Originalsprache)

अद्वैतदर्शनान्तर्गतायां तैत्तिरीयोपनिषदि प्रतिपादितः पञ्चकोशसिद्धान्तः पौरस्त्यदर्शनस्यैवैकाऽद्वितीया दार्शनिक्यवधारणा विद्यते । इयञ्चावधारणा मानवीयमस्तित्वं खल्वन्नमय-प्राणमय-मनोमय-विज्ञानमयाऽऽनन्दमयाख्यैः पञ्चसङ्‌ख्यकैरावरणैराच्छादितमिति विश्लेषयति । अयञ्च सिद्धान्त आत्मन उपाधिभेदस्य च प्रतिपादनपूर्वकमात्मसाक्षात्कारस्य क्रमबद्धं मार्गं प्रस्तौति । यद्यप्यस्मिन् विषये नैके ग्रन्था: समुपलब्धास्तथाप्यद्वैतदर्शदृशा व्यवस्थितमध्ययनमपेक्षाकृतं सीमितमेवोपलभ्यते । प्रस्तुतमेतदध्ययनं गुणात्मक-विश्लेषणात्मक-तुलनात्मकशोधपद्धतावाधारितमस्ति । अत्र च विशेषतया तैत्तिरीयोपनिषद्,शाङ्करभाष्यम्, वेदान्तसार:, विवेकचूडामणि:, पञ्चदशी चेत्यादि वेदान्तग्रन्थानामध्ययनमवलोकनमनुसन्धानं वा विहितमस्ति।अध्ययनेनैतेनैतत् स्पष्टमभूत्- वस्तुतः पञ्चकोशाः खल्वात्मनो नैव वास्तविकस्वरूपा अपि त्वविद्याजन्योपाधिभूताः सन्तीति । प्रस्तुतानामेतेषां पञ्चकोशानामतिक्रमणेनैतत्पञ्चावरणभङ्गेन वात्मसाक्षात्कार एव मोक्षस्यानिवार्यं साधन‌मस्ति ।अन्नमयस्थूलशरीरादभ्यन्तरः शरीरसञ्चालनशक्तिरूपप्राणमयकोशः, प्राणमयकोशादभ्यन्तरः कर्तृरूपमनोमयकोशः, मनोमयकोशादभ्यन्तरो भोक्तृरूपविज्ञानमयकोश:, विज्ञानमयकोशादभ्यन्तर: कारणाज्ञानरूपानन्द‌मयकोशश्चात्मतत्त्वाव रकरूपाः पञ्चकोशाः सन्ति । तेषां पञ्चानामपि कोशानामधिष्ठानरूपेण साक्षिस्वरूपेण च सर्वोपाधिविवर्जितो नित्यशुद्ध‌बुद्धमुक्तस्वभावः स्वयंप्रकाशो बोधस्वरूप आत्मा विद्यते, तदात्मविज्ञानादेव कर्तृत्वभोक्तृत्वप्रमातृत्वरूपः संसारो विलीयते, स्वात्मन्यवस्थारूपामृतलाभो भवतीत्यद्वैतदर्शनसम्मतः सिद्धान्तोऽत्र निस्सारित: ।पञ्चकोशसिद्धान्तोऽयमद्वैतदर्शनात्मविद्यायाः प्रमुखाधारोऽस्ति, अयञ्च मानवव्यक्तित्वस्य चेतनाशक्तेस्तथा समग्रोन्नयनस्य कृते सार्वकालिकीं दार्शनिकीं संरचनामुपस्थापयति । शास्त्रीयप्रमाणाश्रितत्वात् तर्कसङ्गतव्याख्याविश्लेषणत्वात् समकालीनोपयोगित्वाच्चायं सिद्धान्तोऽधुनापि बौद्धिकदृष्ट्या व्यावहारिकदृष्ट्‌या च सान्दर्भिक:, प्रासङ्गिकः, सार्वकालिकश्चेति निष्कर्षः ।

Zitieren

APA

Ghimire, U. (2026). अद्वैतद‌र्शनसम्मतपञ्चकोशसिद्धान्तविवेकः. Sharada Research Journal. https://doi.org/10.3126/srj.v1i2.99120

Vancouver

Ghimire U. अद्वैतद‌र्शनसम्मतपञ्चकोशसिद्धान्तविवेकः. Sharada Research Journal. 2026. doi:10.3126/srj.v1i2.99120

BibTeX
@article{Ghimire2026,
  author = {Ghimire, Umesh},
  title = {अद्वैतद‌र्शनसम्मतपञ्चकोशसिद्धान्तविवेकः},
  journal = {Sharada Research Journal},
  year = {2026},
  doi = {10.3126/srj.v1i2.99120}
}
Kostenlos starten →